सम्पूर्ण गुरुगीता

397
ब्रह्मचारी हंसचैतन्य ।
।।ॐ ।।
पवित्रीकरणम्
अपवित्र: पवित्राे वा सर्वावस्थाङ्गताे$ पि वा ।
य: स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तर: शुचि: ।।
आसनम्
पृथ्वीतिमन्त्रस्य मेरुपृष्ठऋषि: सुतलं छन्द: कूर्माे देवता आसने विनियाेग: ।
पृथ्वी त्वया धृता लाेका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां नित्यं पादस्पर्शं क्षमस्व मे ।।
आचमनम्
अात्मतत्त्वं शाेधयामि स्वाहा ।
विद्यातत्त्वं शाेधयामि स्वाहा ।
शिवतत्त्वं शाेधयामि स्वाहा ।
ब्रह्मतत्त्वं शाेधयामि नम: ।
।।सङ्कटनाशनश्रीगणपतिस्ताेत्रम् ।।
प्रणम्य शिरसा देवं गाैरीपुत्रविनायकम् ।
भक्त्या व्यासस्मरेन्नित्यं आयु: कामार्थसिद्धये ।।१ ।।
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ।।२ ।।
लम्बाेदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ।।३ ।।
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।४ ।।
द्वादशैतानि नामानि त्रिसन्ध्यं याे जपेन्नर: ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं विभाे ।।५ ।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् माेक्षार्थी लभते गतिम् ।।६ ।।
जपेत् गणपतिस्ताेत्रं षड्भिर्मासै: फलं लभेत् ।
संवत्सरेणसिद्धिं च लभते नात्र संशय: ।।७ ।।
।।अथ श्रीगुररुपादुकापञ्चकम् ।।
नमाे गुरुभ्याे गुरुपादुकाभ्याे
नम: परेभ्य: परपादुकाभ्य: ।
आचार्यसिद्धेश्वरपादुकाभ्याे
नमाे नम: श्रीगुरुपादुकाभ्य: ।।१ ।।
ऐङ्कारह्रीङ्काररहस्ययुक्त
श्रीङ्कारगूढार्थमहाविभूत्या ।
अाेङ्कारमर्मप्रतिपादिनीभ्यां
नमाे नम: श्रीगुरुपादुकाभ्याम् ।।२ ।।
हाेत्राग्नि हाैत्राग्नि हविष्यहाेत्र
हाेमादि सर्वाकृतिभासमानाम् ।
यद् ब्रह्म तद्बाेध वितारिणीभ्यां
नमाे नम: श्रीगुरुपादुकाभ्याम् ।।३।।
कामादिसर्पव्रजगारुडाभ्यां
विवेकवैराग्यनिधिप्रदाभ्याम् ।
बाेधप्रदाभ्यां द्रुतमाेक्षदाभ्यां
नमाे नम: श्रीगुरुपादुकाभ्याम् ।।४ ।।
अनन्तसंसारसमुद्रतार-
नाैकायिताभ्यां गुरुभक्तिदाभ्याम् ।
जाड्याब्धिसंशाेषणवाडवाभ्यां
नमाे नम: श्रीगुरुपादुकाभ्याम् ।।५ ।।
।।विनियाेग:।।
।।ॐ अस्यश्रीगुरुगीतास्ताेत्रमालामन्त्रस्य भगवान सदाशिवऋषि:, विराट्छन्द: , श्रीगुरुपरमात्मा देवता ,हं बीजम् ,सं शक्ति:,साे$ हम् कीलकम् ,श्रीगुरुकृपाप्रसादसिद्ध्यर्थे जपे विनियाेग: ।।
।।करन्यास: ।।
ॐ हं सां सूर्यात्मने अङ्गुष्ठाभ्यां नम: ।
ॐ हं सीं साेमात्मने तर्जनीभ्यां नम: ।।
ॐ हं सूं निरञ्जनात्मने मध्यमाभ्यां नम: ।।
ॐ हं सैं निराभासात्मने अनामिकाभ्यां नम:।।
ॐ हं साैं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नम: ।।
ॐ हं स: अव्यक्तात्मने करतलकरपृष्ठाभ्यां नम: ।।
।।अथ हृदयादिन्यास: ।।
।।ॐ हं सां सूर्यात्मने हृदयाय नम: ।।
।।ॐ हं सैं निराभासात्मने कवचाय हुम् ।।
।।ॐ हं साैं अतनुसूक्ष्मात्मने नेत्रत्रयाय वाैषट् ।।
।।ॐ हं सं अव्यक्तात्मने अस्त्राय फट् ।।
।।दिग्बन्ध: ।।
।।ॐ ब्रह्मभूर्भुव: स्वराेम् इति दिग्बन्ध: ।।
।।गुरुध्यानम्।।
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणै:
विश्वाेत्कीर्णमनेकदेहनिलयै: स्वच्छन्दमात्मेच्छया ।
तद्याेतं पदशाम्भवं तु चरणं दीपाङ्कुरग्राहिणम्
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेत् गुरुं शाश्वतम् ।।
।।अथ मानसपूजा ।।
।।लं पृथिव्यात्मने गन्धतन्मात्रा प्रकृत्यानन्दात्मने श्रीगुरुदेवाय नम: पृथिव्यात्मकं गन्धं समर्पयामि ।।
।। हं आकाशात्मने शब्दतन्मात्रा प्रकृत्यानन्दात्मने श्रीगुरुदेवाय नम: आकाशात्मकं पुष्पं समर्पयामि ।।
।। यं वाय्वात्मने स्पर्शतन्मात्रा प्रकृत्यानन्दात्मने श्रीगुरुदेवाय नम: वाय्वात्मकं धूपं समर्पयामि ।।
।।रं तेजात्मने रूपतन्मात्रा प्रकृत्यानन्दात्मने श्रीगुरुदेवाय नम: तेजात्मकं दीपं दर्शयामि ।।
।।वं अपात्मने रसतन्मात्रा प्रकृत्यानन्दात्मने श्रीगुरुदेवाय नम: अपात्मकं नैवेद्यं समर्पयामि ।।
।। सं सर्वात्मने सर्वतन्मात्राप्रकृत्यानन्दात्मने श्रीगुरुदेवाय नम: सर्वात्मकान् सर्वाेपचारान् समर्पयामि ।।
।।इति मानसपूजा ।।
।।श्रीगुरुगीता ।।
सुत उवाच
कैलासशिखरे रम्ये भक्तिसन्धाननायकम् ।।
प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत ।।
श्रीदेव्युवाच
ॐ नमाे देव देवेश परात्पर जगद्गुराे!
सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ।।
केन मार्गेण भाे स्वामिन् देही ब्रह्ममयाे भवेत् ।
त्वंकृपा कुरु मे स्वामिन् नमामि चरणाै तब ।।
ईश्वर उवाच
मम रूपासि देवि त्वंत्वत्प्रीत्यर्थं वदाम्यहम् ।
लाेकाेपकारक: प्रश्नाे न केनापि कृत: पुरा ।।
दुर्लभं त्रिषु लाेकेषु तच्छृणुष्व वदाम्यहम् ।
गुरु विना सत्यनान्यत् सत्यं सत्यं वरानने ।।
वेदशास्त्रपुराणानि इतिहासादिकानि च ।
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ।।
शैवशाक्तागमादीनिअन्यानि विविधानि च ।
अपभ्रंशकराणीह जीवानां भ्रान्तचेताम् ।।
यज्ञाे व्रत तपाेदानं जपस्तीर्थं तथैव च ।
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जना: ।।
गुरुबुद्ध्यात्मनाे नान्यत् सत्यं सत्यं न संशय: ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्याे हि मनीषिभि: ।।
गूढविद्या जगन्माया देहे चाज्ञानसम्भव ।
उदयस्वप्रकाशेन गुरुशब्देन कथ्यते ।।
सर्वपापविशुद्धात्मा श्रीगुराे: पादसेवनात् ।
देही ब्रह्म भवेद्यस्मात् तत्कृपार्थं वदामि ते ।।
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् ।
सर्वतीर्थावगाहस्य सम्प्राप्नाेति फलं नर: ।।
शाेषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् ।
गुरुपादाेदकं सम्यक् संसारार्णवतारकम् ।।
अज्ञानमूलहरणं जन्मकर्मनिवारणम् ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादाेदकं पिवेत् ।।
गुराे: पादाेदकं पीत्वा गुराेरुच्छिष्टभाेजनम् ।
गुरुमूर्ते: सदा ध्यानं गुरुस्ताेत्रं सदा जपेत् ।।
काशीक्षेत्रं तन्निवासाे जाह्नवी चरणाेदकम् ।
गुरु: विश्वेश्वर: साक्षात् तारकं ब्रह्म निश्चितम् ।।
गुरु: पादाेदकं यत्र गया$ साै साे$ क्षयाे वट: ।
तीर्थराजप्रयागश्च गुरुमूर्ते नमाे नम: ।।
गुरुमुूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् ।
गुराेराज्ञां प्रकुर्वीत गुराेरन्यन्नभावयेत् ।।
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादत: ।
गुराेर्ध्यानं यथा कुर्यात् कुलस्त्रीस्वपतेर्यथा ।।
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुराेरन्यन्न भावयेत् ।।
अनन्याश्चिन्तयन्ताे मां सुलभं परमं पदम् ।
तस्मात्सर्वप्रयत्नेन गुराेराराधनं कुरु ।।
त्रैलाेक्यस्फुटवक्ताराे देवाद्यसुरपन्नगा: ।
गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते ।।
गुकारस्वन्धकारस्तु रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशय: ।।
गुकाराे प्रथमाे वर्णाे मायादिगुणभासक: ।
रुकाराे द्वितीयाे ब्रह्म मायाभ्रान्ति विनाशनम् ।।
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ।।
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुराे: परम् ।
आसनं शयनं वस्त्रं भूषण वाहनादिकम् ।।
साधकेन प्रदातव्यं गुरुसन्ताेषकारकम् ।
गुराेराराधनं कार्यं स्वजीवत्वं निवेदयेत् ।।
कर्मणा मनसा वाचा नित्यमाराधयेद् गुरुम् ।
दीर्घदण्डं नमस्कृत्य निर्लज्जाे गुरुसन्निधाै ।।
शरीरमिन्द्रियं प्राणं सद्गुरुभ्याे निवेदयेत् ।
आत्मदारादिकं सर्वं सद्गुरुभ्याे निवेदयेत् ।।
कृमिकाीटभष्मविष्ठा दुर्गन्धिमलमूत्रकम् ।
श्लेष्मरक्तं त्वचाे मांसं वञ्चयेन्न वरानने ।।
संसारवृक्षमारूढा: पतन्ताे नरकार्णवे ।
येन चैवाेद्धृता: सर्वे तस्मै श्रीगुरवे नम: ।।
गुरुर्ब्रह्मा गुरुर्विष्णु: गुरुर्देवाे महेश्वर : ।
गुरु: साक्षात् परब्रह्म तस्मै श्रीगुरवे नम: ।।
हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शम्भवे गुरवे नम: ।।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नम: ।।
त्वंपिता त्वं च मे माता तब बन्धुस्त्वं च देवता: ।
संसारप्रतिबाेधार्थं तस्मै श्रीगुरवे नम: ।।
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति यत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नम: ।।
यस्य स्थित्या सर्वमिदं यद्भाति भानुरूपत: ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नम: ।।
येन चेतयते हीदं चित्तं चेतयते न यम् ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नम: ।।
यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदत: ।
सदेकरूपरूपाय तस्मै श्रीगुरवे नम: ।।
यस्यामतं तस्य मतं मतं यस्य न वेद स: ।
अनन्यभावभावाय तस्मै श्रीगुरवे नम: ।।
यस्य कारणरूपस्य कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नम: ।।
नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणता चैव तस्मै श्रीगुरवे नम: ।।
यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारणम् ।
तारकं सर्वदा$$ पद्भ्य: श्रीगुरुं प्रणमाम्यहम्।।
शिवे क्रुद्धे गुरुस्त्राता गुराै क्रुद्धे शिवाे न हि ।
तस्मात् सर्वप्रयत्नेन श्रीगुराे: शरण व्रजेत् ।।
वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगाेचरम् ।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ।।
गुकारं च गुणातीतं रुकारं रूपवर्जितम् ।
गुणातीतस्वरुपं च याे दद्यात् स गुरु: स्मृत : ।।
अत्रिनेत्र: सर्वसाक्षी अचतुर्बाहुरच्युत : ।
अचतुर्वदनाे ब्रह्मा श्रीगुरु: कथित: प्रिये ।।
अयं मायाञ्जलिर्बद्धाे दयासागरवृद्धये ।
यदनुग्रहताे जन्तुश्चित्रं संसारमुक्तिभाक् ।।
श्रीगुराे: परमं रूपं विवेकचक्षुषाे$ मृतम् ।
मन्दभाग्या: न पश्यन्ति अन्धा: सूर्याेदयं यथा ।।
श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं शिवे ।।
तस्मै दिशे सततमञ्जलिरेष आर्ये
प्रक्षिप्यते मुखरिताे मधुपैर्बुधैश्च ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वाेदयप्रलयनाटकनित्यसाक्षी ।।
श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धाैघं वटुकत्रयं पदयुगं दूतीत्रयं शाम्भवम् ।
वीरेशाष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं
श्रीमन्मालिनीमन्त्रराजसहितं वन्दे गुरुर्मण्डलम् ।।
अभ्यस्तै: सकलै: सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करै :
प्राणायामशतैरनेककरणैर्दु: खात्मक‌ैर्दुर्जयै : ।
यस्मिन्नभ्युदिते विनश्यति बलि: वायु: स्वयं तत्क्षणात्
प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् ।।
स्वदेशिकस्यैव शरीरचिन्तनं
भवेदनन्तस्य शिवस्यचिन्तनम् ।
स्वदेशिकस्यैव च नामकीर्तनं
भवेदनन्तस्य शिवस्य चिन्तनम् ।।
मत्पादरेणुकणिका कापी संसारवारिधे: ।
सेतु बन्धायते नाथं देशिकं तमुपास्महे ।।
यस्यादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ।।
पादाब्जसर्वसंसारदावानलविनाशकम्
ब्रह्मरन्ध्रेसिताम्भाेजमध्यस्थं चन्द्रमण्डले ।
अकठादित्रिरेखास्ते सहस्रदलमण्डले
हंस पार्श्वत्रिकाेणे च स्मरेत्तन्मध्यगं गुरुम् ।।
सकलभुवनसृष्टि: कल्पिताशेषपुष्टि
र्निखिलनिगमदृष्टि: सम्पदां व्यर्थदृष्टि: ।
अवगुणपरिमाष्टिस्तत्पदायैकदृष्टि
र्भवगुणपरमेष्टिर्माेक्षमार्गैकदृष्टि: ।।
सकलभुवनस्तम्भस्थापनास्तम्भयष्टि:
सकरुणरसवृष्टिस्तत्त्वमालासमष्टि: ।
सकलसमयसृष्टि: सच्चिदानन्ददृष्टि:
र्निवसतु मयिनित्यं श्रीगुराेर्दिव्यदृष्टि: ।।
अग्निशुद्धसमं तात ज्वाला परिचका धिया
मन्त्रराजमिमं मन्ये $ हर्निशं पातु मृत्युत: ।।
तदेजति तन्नैजति तद्दूरे तत्समीपके ।
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यत: ।।
अजराे$ हं मजराे$ हं च अनादिनिधन: स्वयम्
अविकारश्चिदानन्द: अणीयान् महताे महान् ।
अपूर्वाणां परं नित्यं स्वयंज्याेतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ।।
श्रुतिप्रत्यक्षमैतिह्यमनुमानाश्चतुष्टयम् ।
यत्स चात्मतपाे वेद देशिकं च सदा स्मरन् ।।
मननं यद् भवं कार्यं तद् वदामि महामते ।
साधुत्वं च मया दृष्टा त्वयि तिष्ठति साम्प्रतम् ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नम: ।।
सर्वश्रुतिशिराेरत्नविराजितपदाम्बुजम् ।
वेदान्ताम्बुजसूर्याय तस्मै श्रीगुरवे नम: ।।
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
य एव सर्वसम्प्राप्तिस्तस्मै श्रीगुरवे नम: ।।
चैतन्यं शाश्वतं शान्तं व्याेमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नम: ।।
स्थावरं जङ्गमं चैव तथा चैव चराचरम् ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नम: ।।
ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषित: ।
भुक्तिमुक्तिप्रदाताय तस्मै श्रीगुरवे नम: ।।
न गुराेरधिकं तत्त्वं न गुराेरधिकं तप: ।
तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नम: ।।
मन्नाथ: श्रीजगन्नाथाे मद्गुरुस्त्रिजगद्गुरु: ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नम: ।।
ध्यानमूलं गुराेर्मूर्ति: पूजामूलं गुराे: पदम् ।
मन्त्रमूलं गुराेर्वाक्यं माेक्षमूलं गुराे: कृपा ।।
गुरुरादिरनादिश्च गुरु: परमदैवतम् ।
गुराे: परतरं नास्ति तस्मै श्रीगुरवे नम: ।।
सप्तसागरपर्यन्तं तीर्थस्नानादिकं फलम् ।
गुराेरङ्घ्रिपयाेबिन्दु सहस्रांशेन दुर्लभम् ।।
हराै रुष्टे गुरुस्त्राता गुराै रुष्टे न कश्चन ।
तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ।।
गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।।
गुराे: परतरं नास्ति तस्माद् सम्पूजयेद् गुरुम् ।।
ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तित: ।
गुराे: परतरे नास्ति ज्ञेयाे $ साै गुरुमार्गिभि: ।।
यस्मात् परतरं नास्ति नेति नेतीति वै श्रुति: ।
मनसा वचसा चैव नित्यमाराधयेद् गुरुम् ।।
गुराे: कृपाप्रसादेन ब्रह्मविष्णुसदाशिवा: ।
समर्था: प्रभवादाै च कैवल्यं गुरुसेवया ।।
देवकिन्नरगन्धर्वा: पितराे यक्षचारणा: ।
मुनयाे$ पि न जानन्ति गुरुशुश्रूषणे विधिम् ।।
महाहङ्कारगर्वेण तपाे विद्याबलान्विता: ।
संसारकुहकावर्ते घटयन्त्रे यथा घटा: ।।
न मुक्ता: देवगन्धर्वा: पितराे यक्षकिन्नरा: ।
ऋषय: सर्वसिद्धाश्च गुरुसेवा पराङ्मुखा: ।।
ध्यानं श्रृणु महादेवि सर्वानन्दप्रदायकम् ।
सर्वसाैख्यकरं नित्यं भुक्तिमुक्तिप्रदायकम् ।।
श्रीमत्परब्रह्म गुरुं स्मरामि
श्रीमत्परब्रह्म गुरुं वदामि ।
श्रीमत्परब्रह्म गुरुं नमामि
श्रीमत्परब्रह्म गुरुं भजामि ।।
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरु तं नमामि ।।
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् ।
नित्यबाेधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ।।
हृद्यम्बुजेकर्णिकामध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद् गुरुं चन्द्रकलाप्रकाशं
चित्पुस्काभीष्टवरं दधानम् ।।
काषायवस्त्रान्वितरक्तपुष्पं
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थित दिव्यशक्तिं
मन्दस्मितं सान्द्रकृपानिधानम् ।।
आनन्दमानन्दकरं प्रसन्नं
ज्ञानस्वरूपं निजबाेधयुक्तम्।
याेगीन्द्रमीड्यं भवराेगवैद्यं
श्रीमत्गुरुं नित्यमहं नमामि ।।
यस्मिन् सृष्टेस्थितिध्वंसनिग्रहानुग्रहात्मकम् ।
कृत्यं पञ्चविधं शश्वद् भासते तं नमाम्यहम् ।।
प्रात: शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराभययुतं शान्तं स्मरेत्तं नामपूर्वकम् ।।
न गुराेरधिकं न गुराेरधिकं न गुराेरधिकं न गुराेरधिकम् ।
शिवशासनत: शिवशासनत: शिवशासनत: शिवशासनत: ।।
इदमेवशिवम् त्विदमेवशिवं त्विदमेवशिवं त्विदमेवशिवम् ।
मम शासनताे मम शासनताे मम शासनताे मम शासनत: ।।
एवं विधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तत्सद्गुरुप्रसादेन मुक्ताे$ हमिति भावयेत् ।।
गुरु: दर्शितमार्गेण मन: शुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत् सर्वं यत्किञ्चदात्मगाेचरम् ।।
ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयं समं कुर्यात् नान्यपन्था द्वितीयक: ।।
एवं श्रुत्वा महादेवि गुरुनिन्दां कराेती य: ।
स याति नरकं घाेरं यावच्चन्द्रदिवाकराै ।।
यावत् कल्पान्तकाे देहस्तावदेव गुरुं भजेत् ।
गुरुलाेपाे न कर्तव्य: स्वच्छन्दाे यदि वा भवेत् ।।
हुङ्कारेण न वक्तव्यं प्राज्ञै: शिष्यै: कथञ्चन ।
गुराेरग्रे न वक्तव्यमसत्यं तु कदाचन ।।
गुरु त्वं कृत्य हुङ्कृत्य गुरु निर्जित्य वादत: ।
अरण्ये निर्जले देशे स भवेद् ब्रह्मराक्षस: ।।
मुनिभि: पन्नगैर्वापि सुरैर्वा शापिताे यदि ।
कालमृत्युभयाद्वापि गुरुर्रक्षति पार्वती ।।
अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा ।
गुरुशापेन ते शीघ्रं क्षयं यान्ति न संशय: ।।
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदार्थवाक्येन गुरु: साक्षात् परं पदम् ।।
श्रुतिस्मृतिमविज्ञाय केवलं गुरुसेवका: ।
ते वै सन्न्यासिन: प्राेक्ता इतरे वेषधारिण: ।।
नित्यं ब्रह्म निराकारं निर्गुणं बाेधयेत् परम् ।
सर्वं ब्रह्म निराभासं दीपाे दीपान्तरं यथा ।।
गुराे: कृपाप्रसादेन आत्मारामं निरीक्षयेत् ।
अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते ।।
आब्रह्मस्तम्बपर्यन्तं परमात्मस्वरूपकम् ।
स्थावरं जङ्गमं चैव प्रणमामि जगन्मयम् ।।
वन्दे $ हं सच्चिदानन्दं भेदातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ।।
परात्परतरं ध्येयं नित्यमानन्दमाकरम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ।।
स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा ।
तथात्मनि चिदाकारमानन्दं साे$ हमित्युत ।।
अङ्गुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि ।
तत्र स्फुरति भावाे य: श्रृणु तं कथयाम्यहम् ।।
अगाेचरं तथा $गम्यं नामरूपविवर्जितम् ।
नि: शब्दं तं विजानीयात् स्वभावं ब्रह्म पार्वती ।।
यथा गन्धस्वभावेन कर्पूरकुसुमादिषु ।
शीताेष्णादिस्वभावेन तथा ब्रह्म च शाश्वतम् ।।
स्वयं तथाविधाे भूत्वा स्थातव्यं यत्र कुत्रचित् ।
कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् ।।
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयाे भवेत् ।
पिण्डे पदे तथा रूपे मुक्ताे$ साै नात्र संशय: ।।
पार्वत्युवाच
पिण्डं किं तु महादेव पदं कि समुदाहृतम् ।
रूपातीतं च रूपं कि एतदाख्याहि शङ्करम् ।।
श्रीमहादेव उवाच
पिण्डं कुण्डलिनी गायत्री शक्तिपीठ बुटवल : पदं हंसमुदाहृतम् ।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ।।
पिण्डे मुक्ता पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते च ये मुक्ता: ते मुक्ता: नात्र संशय: ।।
स्वयं सर्वमयाे भूत्वा परं तत्त्वं विलाेकयेत् ।
परात्परतरं नान्यत् सर्वमेतन्निरालयम् ।।
तस्यावलाेकनं प्राप्य सर्वसङ्गविवर्जितम् ।
एकाकी नि: स्पृह: शान्तस्तिष्ठासेत् तत्प्रसादत: ।।
लब्धं वा$ थ न लबध वा स्वल्पं वा यदि बहुलं तथा ।
निष्कामेनैव भाेक्तव्यं सदा सन्तुष्टचेतसा ।।
सर्वज्ञपदमित्याहुर्देही सर्वमयाे बुधा: ।।
सदानन्द: सदा शान्ताे रमते यत्र कुत्रचित् ।।
यत्रैव तिष्ठते साे$ पि स देश: पुण्यभाजनम् ।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ।।
उपदेशस्तथा देवि गुरुमार्गेण मुक्तिद: ।
गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम् ।।
अनेन यद्भवेत् कार्यं तद् वदामि महामते ।
लाेकाेपकारकं देवि लाैकिकं तु न भावयेत् ।।
लाैकिकात् कर्मणाे यान्ति ज्ञानहीना भवार्णवम् ।
ज्ञानी तु भावयेत् सर्वं कर्म निष्कर्म सत्कृतम् ।।
इदं तु भक्तिभावेन पठते श्रृणुते यदि ।
लिखित्वा तत्प्रदातव्यं दानं दक्षिणया सह ।।
गुरुगीतात्मकं देवि शुद्धतत्त्वं मयाेदितम् ।
भवव्याधिविनाशार्थं स्वयमेव जपेत् सदा ।।
गुरुगीताक्षरैकं तु मन्त्रराजमिमं जपेत् ।
अन्ये च विविधा: मन्त्रा: कलां नार्हन्ति षाेडशीम् ।।
अनन्तफलमाप्नाेति गुरुगीता जपेन तु ।
सर्वपापप्रशमनं सर्वदारिद्रयनाशनम् ।।
कालमृत्युभयहरं सर्वसङ्कटनाशनम् ।
यक्षराक्षसभूतानां चाेरव्याघ्रभयापहम् ।।
महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत् ।
अथवा माेहनं वश्यं स्वयमेव जपेत् सदा ।।
वस्त्रासने च दारिद्र्यं पाषाणे राेगसम्भव: ।
मेदिन्यां दु: खमाप्नाेति काष्ठे भवति निष्फलम् ।।
कृष्णाजिने ज्ञानसिद्धिर्माेक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने ज्ञानसिद्धि: सर्वसिद्धिस्तु कम्बले ।।
कुशैर्वा दूर्वया देवि आसने शुभ्रकम्बले ।
उपविश्य तताे देवि जपेदेकनग्रमानस:।।
ध्येयं शुक्लं च शान्त्यर्थं वश्ये रक्तासनं प्रिये ।
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे ।।
आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् ।
नैऋत्यां दर्शनं चैव ऐशान्यां ज्ञानमेव च ।।
माेहनं सर्वभूतानां बन्धमाेक्षकरं भवेत् ।
देवराजप्रियकरं सर्वलाेकवशं भवेत् ।।
सर्वेषां स्तम्भनकरं गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव सुकर्मसिद्धिदं भवेत् ।।
असिद्धं साधयेत् कार्यं नवग्रहभयापहम् ।
दु: स्वप्ननाशनं चैव सुस्वप्नफलदायकम् ।।
सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां साैभाग्यदायकं तथा ।।
आयुराराेग्यमैश्वर्यं पुत्रपाैत्रप्रवर्धनम् ।
अकामत: स्त्रीविधवा जपन् माेक्षमवाप्नुयात् ।।
अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदु: खभयं विघ्नं नाशयेच्छापहारकम् ।।
सर्ववाधाप्रशमनं धर्मार्थकाममाेक्षदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नाेति निश्चितम् ।।
कामितस्य कामधेनु: कल्पनाकल्पपादप: ।
चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् ।।
माेक्षहेतुर्जपेन्नित्यं माेक्षश्रियमवाप्नुयात् ।
भाेगकामाे जपेद्याे वै तस्य कामफलप्रदम् ।।
जपेच्छाक्तश्च साैरश्च गाणपत्याश्च वैष्णव: ।
शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशय: ।।
अथ काम्यजपस्थानं कथयामि वरानने ।
सागरे वा सरित्तीरे $ थवा हरिहरालये ।।
शक्तिदेवालये गाेष्ठे सर्वदेवालये शुभे ।
वटे च धात्रीमूले वा मठे वृन्दावने तथा ।।
पवित्रे निर्मले स्थाने नित्यानुष्ठानताे$ पि वा ।
निर्वेदनेन माैनेन जपमेतं समाचरेत् ।।
श्मशाने भयभूमाै तु वटमूलान्तिके तथा ।
सिद्ध्यन्ति धाैत्तरे मूले चूतवृक्षस्य सन्निधाै ।।
गुरुपुत्राे वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा ।
शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च ।।
संसारमलनाशार्थं भवपाशनिवृत्तये ।
गुरुगीताम्भसि स्नानं तत्त्वज्ञ: कुरुते सदा ।।
स एव च गुरु: साक्षात् सदा सद् ब्रह्मवित्तम: ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशय: ।।
सर्वशुद्ध: पवित्राे$ साै स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणा: सर्वे क्षेत्रे पीठे वसन्ति हि ।।
आसनस्थ: शयानाे वा गच्छन् तिष्ठन् वदन्नपि ।
अश्वारूढाे गजारूढ: सुप्ताे वा जागृताे$ पि वा ।।
शुचिष्मांश्च सदा ज्ञानी गुरुगीता जपेन तु ।
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ।।
समुद्रे च यथा ताेयं क्षीरे क्षीरं घृते घृतम् ।
भिन्ने कुम्भे यथाकाश: तथात्मा परमात्मनि ।।
तथैव ज्ञानी जीवात्मा परमात्मनि लीयते ।
ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशिम् ।।
एवं विधाे महामुक्त: सर्वदा रमते बुध: ।
तस्य सर्वप्रयत्नेन भावभक्तिं कराेति य: ।।
सर्वसन्देहरहिताे मुक्ताे भवति पार्वती ।
भुक्तिमुक्तिद्वयं तस्य जिह्वाग्रे च सरस्वती ।।
अनेन प्राणिन: सर्वे गुरुगीता जपेन तु ।
सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशय: ।।
सत्यं सत्यं पुन: सत्यं धर्मं साङ्ख्यं मयाेदितम् ।
गुरुगीतासमं नास्ति सत्यं सत्यं वरानने ।।
एकाे देव: एकधर्म: एकनिष्ठा परन्तप: ।
गुराे: परतरं नान्यन्नास्ति तत्त्वं गुराे: परम् ।।
धन्या माता पिता धन्याे धन्याे वंश: कुलं तथा ।
धन्या च वसुधा देवि गुरुभक्ति: सुदुर्लभा।।
आकल्पजन्मना काेट्या जपव्रततप: क्रिया ।
तत्सर्वं सफलं देवि गुरुसन्ताेषमात्रत: ।।
विद्यातपाेबलेनैव मन्दभाग्याश्च ये नरा: ।
गुरुसेवां न कुर्वन्ति सत्यं सत्यं वरानने ।।
ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नरा: ।
सिद्धचारणयक्षाश्च अन्ये$ पि मुनयाे जना: ।।
गुरुभाव: परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ।।
जपेन जयमाप्नाेति चानन्तफलमाप्नुयात् ।
हीनकर्म त्यजेत् सर्वं स्थानानि चाधमानि च ।।
उग्रध्यानं कुक्कुटस्थं हीनकर्मफलप्रदम् ।
गुरुगीता प्रयाणे वा सङ्ग्रामे रिपुसङ्कटे ।।
जपते जयमाप्नाेति मरणे मुक्तिदायकम् ।
सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति ।।
इदं रहस्यं नाे वाच्यं तवाग्रे कथितं मया ।
सुगाेप्यं च प्रयत्नेन मम त्वंच प्रियात्विति ।।
स्वामीमुख्यगणेशादिविष्ण्वादीनां च पार्वती ।
मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम् ।।
अतीव पक्वचित्ताय श्रद्धाभक्तियुताय च
प्रवक्तव्यमिदं देवि ममात्मासि सदा प्रिये ।।
अभक्ते वञ्चके धूर्ते पाखण्डे नास्तिके परे ।
मनसापि न वक्तव्या गुरुगीता कदाचन । ।
सच्चिदानन्दरूपाय कृष्णाय शुभकारिणे
नमाे वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे।।
श्रीगुरुजगदाधार आत्मविद्याविशारद।
अभिनन्द्यात्मविज्ञाननिमग्नं च सदा प्रिय ।।
गुरवाे बहव: सन्ति शिष्यवित्तापहारका: ।
गुरवा नहि सर्वत्र शिष्यचिन्तापहारका: ।।
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम्।
दारिद्र्यदु: खभयहारकसिद्धमन्त्रं
वन्देमहाभयहरं गुरुराजमन्त्रम् ।।
।।इतिश्रीस्कन्दपुराणे उत्तरखण्डे ईश्वरपार्वतीसंवादे श्रीगुरुगीतासम्पूर्णा ।।ॐ तत्सत् ।।